Listen to our 'Shri Ram Dwadash Naam Stotram' with lyrics to seek blessing from Lord Rama. For more such devotional videos do subscribe to your favourite channel at rajshrisoul

Lyrics-
ॐ प्रथमं श्रीधरं विद्याद् द्वितीयं रघुनायकम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥

नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥

द्वादशैतानि नामानि यः पठेत् श्रद्धयान्वितः ।
अर्धरात्रे तु द्वादश्यां कुष्ठ दारिद्र्य नाशनम् ॥ ४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।
ब्रह्महत्या सुरापानं गोहत्यादि निवारणम् ॥ ५॥

सप्तवारं पठेन्नित्यं सर्वारिष्ट निवारणम् ।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।
अश्वमेध शतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥